Original

तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः ।नयनेभ्यः प्रमुमुचुरुष्णं वै वारिदुःखिताः ॥ १७ ॥

Segmented

तस्य संविशतस् तत्र रुदन्तो वानर-ऋषभाः नयनेभ्यः प्रमुमुचुः उष्णम् वै वारि दुःखिताः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
संविशतस् संविश् pos=va,g=m,c=6,n=s,f=part
तत्र तत्र pos=i
रुदन्तो रुद् pos=va,g=m,c=1,n=p,f=part
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
नयनेभ्यः नयन pos=n,g=n,c=5,n=p
प्रमुमुचुः प्रमुच् pos=v,p=3,n=p,l=lit
उष्णम् उष्ण pos=a,g=n,c=2,n=s
वै वै pos=i
वारि वारि pos=n,g=n,c=2,n=s
दुःखिताः दुःखित pos=a,g=m,c=1,n=p