Original

प्लवंगमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे ।अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः ॥ ३१ ॥

Segmented

प्लवंगमानाम् तु भय-अर्दितानाम् श्रुत्वा वचस् तार इदम् बभाषे अलम् विषादेन बिलम् प्रविश्य वसाम सर्वे यदि रोचते वः

Analysis

Word Lemma Parse
प्लवंगमानाम् प्लवंगम pos=n,g=m,c=6,n=p
तु तु pos=i
भय भय pos=n,comp=y
अर्दितानाम् अर्दय् pos=va,g=m,c=6,n=p,f=part
श्रुत्वा श्रु pos=vi
वचस् वचस् pos=n,g=n,c=2,n=s
तार तार pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
अलम् अलम् pos=i
विषादेन विषाद pos=n,g=m,c=3,n=s
बिलम् बिल pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
वसाम वस् pos=v,p=1,n=p,l=lot
सर्वे सर्व pos=n,g=m,c=1,n=p
यदि यदि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p