Original

ततस्ते ददृशुर्घोरं सागरं वरुणालयम् ।अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम् ॥ १४ ॥

Segmented

ततस् ते ददृशुः घोरम् सागरम् वरुणालयम् अपारम् अभिगर्जन्तम् घोरैः ऊर्मिभिः आकुलम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
घोरम् घोर pos=a,g=m,c=2,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
वरुणालयम् वरुणालय pos=n,g=m,c=2,n=s
अपारम् अपार pos=a,g=m,c=2,n=s
अभिगर्जन्तम् अभिगर्ज् pos=va,g=m,c=2,n=s,f=part
घोरैः घोर pos=a,g=m,c=3,n=p
ऊर्मिभिः ऊर्मि pos=n,g=m,c=3,n=p
आकुलम् आकुल pos=a,g=m,c=2,n=s