Original

अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः ।कुरराः सारसाश्चैव निष्पतन्ति पतत्रिणः ।साध्वत्र प्रविशामेति मया तूक्ताः प्लवंगमाः ॥ १२ ॥

Segmented

अस्मात् हंसाः जल-क्लिन्नाः पक्षैः सलिल-रेणुभिः कुरराः सारसाः च एव निष्पतन्ति पतत्रिणः साध्व् अत्र प्रविशाम इति मया तु उक्ताः प्लवंगमाः

Analysis

Word Lemma Parse
अस्मात् इदम् pos=n,g=n,c=5,n=s
हंसाः हंस pos=n,g=m,c=1,n=p
जल जल pos=n,comp=y
क्लिन्नाः क्लिद् pos=va,g=m,c=1,n=p,f=part
पक्षैः पक्ष pos=n,g=m,c=3,n=p
सलिल सलिल pos=n,comp=y
रेणुभिः रेणु pos=n,g=m,c=3,n=p
कुरराः कुरर pos=n,g=m,c=1,n=p
सारसाः सारस pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
निष्पतन्ति निष्पत् pos=v,p=3,n=p,l=lat
पतत्रिणः पतत्रिन् pos=n,g=m,c=1,n=p
साध्व् साधु pos=a,g=n,c=2,n=s
अत्र अत्र pos=i
प्रविशाम प्रविश् pos=v,p=1,n=p,l=lot
इति इति pos=i
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p