Original

इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् ।अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥ १ ॥

Segmented

इत्य् उक्त्वा हनुमांस् तत्र पुनः कृष्ण-अजिन-अम्बराम् अब्रवीत् ताम् महाभागाम् तापसीम् धर्म-चारिणीम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
हनुमांस् हनुमन्त् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
पुनः पुनर् pos=i
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
अम्बराम् अम्बर pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
तापसीम् तापसी pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s