Original

सोऽपि तान्वानरान्सर्वान्नष्टाः स्थेत्यब्रवीद्बली ।अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संहितम् ॥ १७ ॥

Segmented

सो ऽपि तान् वानरान् सर्वान् नष्टाः स्थ इति अब्रवीद् बली अभ्यधावत संक्रुद्धो मुष्टिम् उद्यम्य संहितम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
वानरान् वानर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
नष्टाः नश् pos=va,g=m,c=1,n=p,f=part
स्थ अस् pos=v,p=2,n=p,l=lat
इति इति pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
बली बलिन् pos=n,g=m,c=1,n=s
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
संहितम् संधा pos=va,g=m,c=2,n=s,f=part