Original

तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः ।कपिराजेन संगम्य निराशाः कपियूथपाः ॥ ६ ॥

Segmented

तद् अहः प्रथमम् कृत्वा मासे प्रस्रवणम् गताः कपि-राजेन संगम्य निराशाः कपि-यूथपाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अहः अहर् pos=n,g=,c=2,n=s
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
मासे मास pos=n,g=m,c=7,n=s
प्रस्रवणम् प्रस्रवण pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
कपि कपि pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
संगम्य संगम् pos=vi
निराशाः निराश pos=a,g=m,c=1,n=p
कपि कपि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p