Original

एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः ।स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥ ८ ॥

Segmented

एवम् संचोदिताः सर्वे राज्ञा वानर-यूथपाः स्वाम् स्वाम् दिशम् अभिप्रेत्य त्वरिताः सम्प्रतस्थिरे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संचोदिताः संचोदय् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
वानर वानर pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
स्वाम् स्व pos=a,g=f,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
अभिप्रेत्य अभिप्रे pos=vi
त्वरिताः त्वरित pos=a,g=m,c=1,n=p
सम्प्रतस्थिरे सम्प्रस्था pos=v,p=3,n=p,l=lit