Original

कृतं हि प्रियमस्माकं राघवेण महात्मना ।तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥ ६ ॥

Segmented

कृतम् हि प्रियम् अस्माकम् राघवेण महात्मना तस्य चेत् प्रतिकारो ऽस्ति सफलम् जीवितम् भवेत्

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
प्रियम् प्रिय pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
राघवेण राघव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चेत् चेद् pos=i
प्रतिकारो प्रतिकार pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
सफलम् सफल pos=a,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin