Original

ततः सुषेण प्रमुखाः प्लवंगमाः सुग्रीववाक्यं निपुणं निशम्य ।आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम् ॥ ५२ ॥

Segmented

ततः सुषेण-प्रमुखाः प्लवंगमाः सुग्रीव-वाक्यम् निपुणम् निशम्य आमन्त्र्य सर्वे प्लवग-अधिपम् ते जग्मुः दिशम् ताम् वरुण-अभिगुप्ताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुषेण सुषेण pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
सुग्रीव सुग्रीव pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
निपुणम् निपुण pos=a,g=n,c=2,n=s
निशम्य निशामय् pos=vi
आमन्त्र्य आमन्त्रय् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
प्लवग प्लवग pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
दिशम् दिश् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वरुण वरुण pos=n,comp=y
अभिगुप्ताम् अभिगुप् pos=va,g=f,c=2,n=s,f=part