Original

ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः ।कृतापराधो बहुशो मम बन्धुर्भविष्यति ॥ ४६ ॥

Segmented

ततः प्रियतरो न अस्ति मम प्राणाद् विशेषतः कृत-अपराधः बहुशो मम बन्धुः भविष्यति

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रियतरो प्रियतर pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
प्राणाद् प्राण pos=n,g=m,c=5,n=s
विशेषतः विशेषतः pos=i
कृत कृ pos=va,comp=y,f=part
अपराधः अपराध pos=n,g=m,c=1,n=s
बहुशो बहुशस् pos=i
मम मद् pos=n,g=,c=6,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt