Original

द्वीपस्तस्यापरे पारे शतयोजनमायतः ।अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः ।तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥ २४ ॥

Segmented

द्वीपस् तस्य अपरे पारे शत-योजनम् आयतः अगम्यो मानुषैः दीप्तस् तम् मार्गध्वम् समन्ततः तत्र सर्व-आत्मना सीता मार्गितव्या विशेषतः

Analysis

Word Lemma Parse
द्वीपस् द्वीप pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपरे अपर pos=n,g=m,c=7,n=s
पारे पार pos=n,g=m,c=7,n=s
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतः आयम् pos=va,g=m,c=1,n=s,f=part
अगम्यो अगम्य pos=a,g=m,c=1,n=s
मानुषैः मानुष pos=n,g=m,c=3,n=p
दीप्तस् दीप् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
मार्गध्वम् मार्ग् pos=v,p=2,n=p,l=lot
समन्ततः समन्ततः pos=i
तत्र तत्र pos=i
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
सीता सीता pos=n,g=f,c=1,n=s
मार्गितव्या मार्ग् pos=va,g=f,c=1,n=s,f=krtya
विशेषतः विशेषतः pos=i