Original

ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम् ।अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥ २० ॥

Segmented

ततः समुद्रम् आसाद्य सम्प्रधार्य अर्थ-निश्चयम् अगस्त्येन अन्तरे तत्र सागरे विनिवेशितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
सम्प्रधार्य सम्प्रधारय् pos=vi
अर्थ अर्थ pos=n,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
अन्तरे अन्तर pos=a,g=m,c=7,n=s
तत्र तत्र pos=i
सागरे सागर pos=n,g=m,c=7,n=s
विनिवेशितः विनिवेशय् pos=va,g=m,c=1,n=s,f=part