Original

राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः ।भार्यया च महातेजाः सीतयानुगतो वशी ।दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ ८ ॥

Segmented

राज्याद् भ्रष्टो वने वस्तुम् मया सार्धम् इह आगतः भार्यया च महा-तेजाः सीतया अनुगतः वशी दिनक्षये महा-तेजाः प्रभया इव दिवाकरः

Analysis

Word Lemma Parse
राज्याद् राज्य pos=n,g=n,c=5,n=s
भ्रष्टो भ्रंश् pos=va,g=m,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
वस्तुम् वस् pos=vi
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
भार्यया भार्या pos=n,g=f,c=3,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सीतया सीता pos=n,g=f,c=3,n=s
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
वशी वशिन् pos=a,g=m,c=1,n=s
दिनक्षये दिनक्षय pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्रभया प्रभा pos=n,g=f,c=3,n=s
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s