Original

युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति ।तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥ २० ॥

Segmented

युवाभ्याम् सह धर्म-आत्मा सुग्रीवः सख्यम् इच्छति तस्य माम् सचिवम् वित्तम् वानरम् पवनात्मजम्

Analysis

Word Lemma Parse
युवाभ्याम् त्वद् pos=n,g=,c=3,n=d
सह सह pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सख्यम् सख्य pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
सचिवम् सचिव pos=n,g=m,c=2,n=s
वित्तम् विद् pos=va,g=m,c=2,n=s,f=part
वानरम् वानर pos=n,g=m,c=2,n=s
पवनात्मजम् पवनात्मज pos=n,g=m,c=2,n=s