Original

स तत्र गत्वा हनुमान्बलवान्वानरोत्तमः ।उपचक्राम तौ वाग्भिर्मृद्वीभिः सत्यविक्रमः ॥ २ ॥

Segmented

स तत्र गत्वा हनुमान् बलवान् वानर-उत्तमः उपचक्राम तौ वाग्भिः मृद्वीभिः सत्य-विक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
गत्वा गम् pos=vi
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
वानर वानर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
उपचक्राम उपक्रम् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d
वाग्भिः वाच् pos=n,g=,c=3,n=p
मृद्वीभिः मृदु pos=a,g=f,c=3,n=p
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s