Original

नीलेषु नीला नववारिपूर्णा मेघेषु मेघाः प्रविभान्ति सक्ताः ।दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः ॥ ३१ ॥

Segmented

नीलेषु नीला नव-वारि-पूर्णाः मेघेषु मेघाः प्रविभान्ति सक्ताः दवाग्नि-दग्धेषु दवाग्नि-दग्धाः शैलेषु शैला इव बद्ध-मूलाः

Analysis

Word Lemma Parse
नीलेषु नील pos=a,g=m,c=7,n=p
नीला नील pos=a,g=m,c=1,n=p
नव नव pos=a,comp=y
वारि वारि pos=n,comp=y
पूर्णाः पृ pos=va,g=m,c=1,n=p,f=part
मेघेषु मेघ pos=n,g=m,c=7,n=p
मेघाः मेघ pos=n,g=m,c=1,n=p
प्रविभान्ति प्रविभा pos=v,p=3,n=p,l=lat
सक्ताः सञ्ज् pos=va,g=m,c=1,n=p,f=part
दवाग्नि दवाग्नि pos=n,comp=y
दग्धेषु दह् pos=va,g=m,c=7,n=p,f=part
दवाग्नि दवाग्नि pos=n,comp=y
दग्धाः दह् pos=va,g=m,c=1,n=p,f=part
शैलेषु शैल pos=n,g=m,c=7,n=p
शैला शैल pos=n,g=m,c=1,n=p
इव इव pos=i
बद्ध बन्ध् pos=va,comp=y,f=part
मूलाः मूल pos=n,g=m,c=1,n=p