Original

संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवंगमाः ।आजग्मुरुदकं कर्तुं नदीं शीतजलां शुभाम् ॥ ४२ ॥

Segmented

संस्कृत्य वालिनम् ते तु विधि-पूर्वम् प्लवंगमाः आजग्मुः उदकम् कर्तुम् नदीम् शीत-जलाम् शुभाम्

Analysis

Word Lemma Parse
संस्कृत्य संस्कृ pos=vi
वालिनम् वालिन् pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
विधि विधि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
उदकम् उदक pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
नदीम् नदी pos=n,g=f,c=2,n=s
शीत शीत pos=a,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s