Original

यथा हि त्वं महाबाहो लालितः सततं मया ।न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते ॥ २१ ॥

Segmented

यथा हि त्वम् महा-बाहो लालितः सततम् मया न तथा वर्तमानम् त्वाम् सुग्रीवो बहु मंस्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
लालितः लालय् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
तथा तथा pos=i
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
मंस्यते मन् pos=v,p=3,n=s,l=lrt