Original

एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् ।प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ॥ ४० ॥

Segmented

एवम् उक्तस् तु रामेण वाली प्रव्यथितो भृशम् प्रत्युवाच ततो रामम् प्राञ्जलिः वानर-ईश्वरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
प्रव्यथितो प्रव्यथय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
रामम् राम pos=n,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वानर वानर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s