Original

काममेवंविधं लोकः कालेन विनियुज्यते ।क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ॥ ४४ ॥

Segmented

कामम् एवंविधम् लोकः कालेन विनियुज्यते क्षमम् चेद् भवता प्राप्तम् उत्तरम् साधु चिन्त्यताम्

Analysis

Word Lemma Parse
कामम् काम pos=n,g=m,c=2,n=s
एवंविधम् एवंविध pos=a,g=m,c=2,n=s
लोकः लोक pos=n,g=m,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
विनियुज्यते विनियुज् pos=v,p=3,n=s,l=lat
क्षमम् क्षम pos=a,g=n,c=1,n=s
चेद् चेद् pos=i
भवता भवत् pos=a,g=m,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
उत्तरम् उत्तर pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
चिन्त्यताम् चिन्तय् pos=v,p=3,n=s,l=lot