Original

ततः स जीमूतगणप्रणादो नादं व्यमुञ्चत्त्वरया प्रतीतः ।सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वानिलचञ्चलोर्मिः ॥ २१ ॥

Segmented

ततः स जीमूत-गण-प्रणादः नादम् व्यमुञ्चत् त्वरया प्रतीतः सूर्य-आत्मजः शौर्य-विवृद्ध-तेजाः सरित्पतिः वा अनिल-चञ्चल-ऊर्मिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
जीमूत जीमूत pos=n,comp=y
गण गण pos=n,comp=y
प्रणादः प्रणाद pos=n,g=m,c=1,n=s
नादम् नाद pos=n,g=m,c=2,n=s
व्यमुञ्चत् विमुच् pos=v,p=3,n=s,l=lan
त्वरया त्वरा pos=n,g=f,c=3,n=s
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
सूर्य सूर्य pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
शौर्य शौर्य pos=n,comp=y
विवृद्ध विवृध् pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
सरित्पतिः सरित्पति pos=n,g=m,c=1,n=s
वा वा pos=i
अनिल अनिल pos=n,comp=y
चञ्चल चञ्चल pos=a,comp=y
ऊर्मिः ऊर्मि pos=n,g=m,c=1,n=s