Original

मृदुशष्पाङ्कुराहारान्निर्भयान्वनगोचरान् ।चरतः सर्वतोऽपश्यन्स्थलीषु हरिणान्स्थितान् ॥ ९ ॥

Segmented

मृदु-शष्प-अङ्कुर-आहारान् निर्भयान् वन-गोचरान् चरतः सर्वतो ऽपश्यन् स्थलीषु हरिणान् स्थितान्

Analysis

Word Lemma Parse
मृदु मृदु pos=a,comp=y
शष्प शष्प pos=n,comp=y
अङ्कुर अङ्कुर pos=n,comp=y
आहारान् आहार pos=n,g=m,c=2,n=p
निर्भयान् निर्भय pos=a,g=m,c=2,n=p
वन वन pos=n,comp=y
गोचरान् गोचर pos=a,g=m,c=2,n=p
चरतः चर् pos=va,g=m,c=2,n=p,f=part
सर्वतो सर्वतस् pos=i
ऽपश्यन् पश् pos=v,p=3,n=p,l=lan
स्थलीषु स्थली pos=n,g=f,c=7,n=p
हरिणान् हरिण pos=n,g=m,c=2,n=p
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part