Original

कच्चित्ते नियतः कोप आहारश्च तपोधने ।कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् ।कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि ॥ ८ ॥

Segmented

कच्चित् ते नियतः कोप आहारः च तपोधने कच्चित् ते नियमाः प्राप्ताः कच्चित् ते मनसः सुखम् कच्चित् ते गुरु-शुश्रूषा सफला चारु-भाषिन्

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
कोप कोप pos=n,g=m,c=1,n=s
आहारः आहार pos=n,g=m,c=1,n=s
pos=i
तपोधने तपोधन pos=a,g=f,c=8,n=s
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नियमाः नियम pos=n,g=m,c=1,n=p
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गुरु गुरु pos=n,comp=y
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
सफला सफल pos=a,g=f,c=1,n=s
चारु चारु pos=a,comp=y
भाषिन् भाषिन् pos=a,g=f,c=8,n=s