Original

तेषां तपः प्रभावेन पश्याद्यापि रघूत्तम ।द्योतयन्ति दिशः सर्वाः श्रिया वेद्योऽतुलप्रभाः ॥ २० ॥

Segmented

तेषाम् तपः-प्रभावेन पश्य अद्य अपि रघूत्तम द्योतयन्ति दिशः सर्वाः श्रिया वेद्यो अतुल-प्रभाः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तपः तपस् pos=n,comp=y
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
अपि अपि pos=i
रघूत्तम रघूत्तम pos=n,g=m,c=8,n=s
द्योतयन्ति द्योतय् pos=v,p=3,n=p,l=lat
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
श्रिया श्री pos=n,g=f,c=3,n=s
वेद्यो वेदी pos=n,g=f,c=1,n=p
अतुल अतुल pos=a,comp=y
प्रभाः प्रभा pos=n,g=f,c=1,n=p