Original

ऋष्यमूकस्तु पम्पायाः पुरस्तात्पुष्पितद्रुमः ।सुदुःखारोहणो नाम शिशुनागाभिरक्षितः ।उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ॥ २४ ॥

Segmented

ऋष्यमूकस् तु पम्पायाः पुरस्तात् पुष्पित-द्रुमः सु दुःख-आरोहणः नाम शिशुनाग-अभिरक्षितः उदारो ब्रह्मणा च एव पूर्व-काले विनिर्मितः

Analysis

Word Lemma Parse
ऋष्यमूकस् ऋष्यमूक pos=n,g=m,c=1,n=s
तु तु pos=i
पम्पायाः पम्पा pos=n,g=f,c=6,n=s
पुरस्तात् पुरस्तात् pos=i
पुष्पित पुष्पित pos=a,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s
सु सु pos=i
दुःख दुःख pos=n,comp=y
आरोहणः आरोहण pos=n,g=m,c=1,n=s
नाम नाम pos=i
शिशुनाग शिशुनाग pos=n,comp=y
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part
उदारो उदार pos=a,g=m,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
पूर्व पूर्व pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
विनिर्मितः विनिर्मा pos=va,g=m,c=1,n=s,f=part