Original

अहो लक्ष्मण गर्ह्यं ते कृतं यत्त्वं विहाय ताम् ।सीतामिहागतः सौम्य कच्चित्स्वस्ति भवेदिति ॥ १६ ॥

Segmented

अहो लक्ष्मण गर्ह्यम् ते कृतम् यत् त्वम् विहाय ताम् सीताम् इह आगतः सौम्य कच्चित् स्वस्ति भवेद् इति

Analysis

Word Lemma Parse
अहो अहो pos=i
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
गर्ह्यम् गर्ह् pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
विहाय विहा pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
सौम्य सौम्य pos=a,g=m,c=8,n=s
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i