Original

अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा ।एतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन् ॥ १० ॥

Segmented

अन्तरिक्ष-गताः वाचः ससृजुः चारणास् तदा एतत् अन्तः दशग्रीव इति सिद्धास् तदा अब्रुवन्

Analysis

Word Lemma Parse
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गताः गम् pos=va,g=f,c=2,n=p,f=part
वाचः वाच् pos=n,g=f,c=2,n=p
ससृजुः सृज् pos=v,p=3,n=p,l=lit
चारणास् चारण pos=n,g=m,c=1,n=p
तदा तदा pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
दशग्रीव दशग्रीव pos=n,g=m,c=1,n=s
इति इति pos=i
सिद्धास् सिद्ध pos=n,g=m,c=1,n=p
तदा तदा pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan