Original

त्वयैव नूनं दुष्टात्मन्भीरुणा हर्तुमिच्छता ।ममापवाहितो भर्ता मृगरूपेण मायया ।यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः ॥ ४ ॥

Segmented

त्वया एव नूनम् दुष्ट-आत्मन् भीरुणा हर्तुम् इच्छता मे अपवाहितः भर्ता मृग-रूपेण मायया यो हि माम् उद्यतस् त्रातुम् सो ऽप्य् अयम् विनिपातितः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
नूनम् नूनम् pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
भीरुणा भीरु pos=a,g=m,c=3,n=s
हर्तुम् हृ pos=vi
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
अपवाहितः अपवाहय् pos=va,g=m,c=1,n=s,f=part
भर्ता भर्तृ pos=n,g=m,c=1,n=s
मृग मृग pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
मायया माया pos=n,g=f,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
उद्यतस् उद्यम् pos=va,g=m,c=1,n=s,f=part
त्रातुम् त्रा pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
विनिपातितः विनिपातय् pos=va,g=m,c=1,n=s,f=part