Original

ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः ।अङ्केनादाय वैदेहीं रथमारोपयत्तदा ॥ १९ ॥

Segmented

ततस् ताम् परुषैः वाक्यैः अभितर्ज्य महा-स्वनः अङ्केन आदाय वैदेहीम् रथम् आरोपयत् तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
परुषैः परुष pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
अभितर्ज्य अभितर्जय् pos=vi
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
अङ्केन अङ्क pos=n,g=m,c=3,n=s
आदाय आदा pos=vi
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोपयत् आरोपय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i