Original

सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ॥ १ ॥

Segmented

सीताया वचनम् श्रुत्वा दशग्रीवः प्रतापवान् हस्ते हस्तम् समाहत्य चकार सु महत् वपुः

Analysis

Word Lemma Parse
सीताया सीता pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
हस्ते हस्त pos=n,g=m,c=7,n=s
हस्तम् हस्त pos=n,g=m,c=2,n=s
समाहत्य समाहन् pos=vi
चकार कृ pos=v,p=3,n=s,l=lit
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s