Original

जीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम् ।न मादृशीं राक्षसधर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥ २३ ॥

Segmented

जीवेच् चिरम् वज्रधरस्य हस्ताच् छचीम् प्रधृष्य अप्रतिरूप-रूपाम् न मादृशीम् राक्षस धर्षयित्वा पीत-अमृतस्य अपि ते अस्ति मोक्षः

Analysis

Word Lemma Parse
जीवेच् जीव् pos=v,p=3,n=s,l=vidhilin
चिरम् चिरम् pos=i
वज्रधरस्य वज्रधर pos=n,g=m,c=6,n=s
हस्ताच् हस्त pos=n,g=m,c=5,n=s
छचीम् शची pos=n,g=f,c=2,n=s
प्रधृष्य प्रधृष् pos=vi
अप्रतिरूप अप्रतिरूप pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
pos=i
मादृशीम् मादृश pos=a,g=f,c=2,n=s
राक्षस राक्षस pos=n,g=m,c=8,n=s
धर्षयित्वा धर्षय् pos=vi
पीत पा pos=va,comp=y,f=part
अमृतस्य अमृत pos=n,g=m,c=6,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
मोक्षः मोक्ष pos=n,g=m,c=1,n=s