Original

पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताः ।सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥ २७ ॥

Segmented

पञ्च दास्यः सहस्राणि सर्व-आभरण-भूषिताः सीते परिचरिष्यन्ति भार्या भवसि मे यदि

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
दास्यः दासी pos=n,g=f,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषिताः भूषय् pos=va,g=f,c=1,n=p,f=part
सीते सीता pos=n,g=f,c=8,n=s
परिचरिष्यन्ति परिचर् pos=v,p=3,n=p,l=lrt
भार्या भार्या pos=n,g=f,c=1,n=s
भवसि भू pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
यदि यदि pos=i