Original

तत्र रामं भयं तीव्रमाविवेश विषादजम् ।राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम् ॥ २० ॥

Segmented

तत्र रामम् भयम् तीव्रम् आविवेश विषाद-जम् राक्षसम् मृग-रूपम् तम् हत्वा श्रुत्वा च तद्-स्वरम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
रामम् राम pos=n,g=m,c=2,n=s
भयम् भय pos=n,g=n,c=1,n=s
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
आविवेश आविश् pos=v,p=3,n=s,l=lit
विषाद विषाद pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
मृग मृग pos=n,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
श्रुत्वा श्रु pos=vi
pos=i
तद् तद् pos=n,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s