Original

तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा ।तरुणादित्यवर्णेन नक्षत्रपथवर्चसा ।बभूव राघवस्यापि मनो विस्मयमागतम् ॥ २१ ॥

Segmented

तेन काञ्चनरोम्ना तु मणि-प्रवर-शृङ्गिणा तरुण-आदित्य-वर्णेन नक्षत्रपथ-वर्चसा बभूव राघवस्य अपि मनो विस्मयम् आगतम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
काञ्चनरोम्ना काञ्चनरोमन् pos=a,g=m,c=3,n=s
तु तु pos=i
मणि मणि pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
शृङ्गिणा शृङ्गिन् pos=a,g=m,c=3,n=s
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
वर्णेन वर्ण pos=n,g=m,c=3,n=s
नक्षत्रपथ नक्षत्रपथ pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s
बभूव भू pos=v,p=3,n=s,l=lit
राघवस्य राघव pos=n,g=m,c=6,n=s
अपि अपि pos=i
मनो मनस् pos=n,g=n,c=1,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part