Original

शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर ।इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा ॥ ४ ॥

Segmented

शत्रवस् तव सु व्यक्तम् हीन-वीर्याः निशाचर इच्छन्ति त्वाम् विनश्यन्तम् उपरुद्धम् बलीयसा

Analysis

Word Lemma Parse
शत्रवस् शत्रु pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
हीन हा pos=va,comp=y,f=part
वीर्याः वीर्य pos=n,g=m,c=1,n=p
निशाचर निशाचर pos=n,g=m,c=8,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
विनश्यन्तम् विनश् pos=va,g=m,c=2,n=s,f=part
उपरुद्धम् उपरुध् pos=va,g=m,c=2,n=s,f=part
बलीयसा बलीयस् pos=a,g=m,c=3,n=s