Original

आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्य ।एतद्यथावत्परिगृह्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम् ॥ २१ ॥

Segmented

आसाद्य तम् जीवित-संशयः ते मृत्युः ध्रुवो ह्य् अद्य मया विरुध्य एतद् यथावत् परिगृह्य बुद्ध्या यद् अत्र पथ्यम् कुरु तत् तथा त्वम्

Analysis

Word Lemma Parse
आसाद्य आसादय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
जीवित जीवित pos=n,comp=y
संशयः संशय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
ह्य् हि pos=i
अद्य अद्य pos=i
मया मद् pos=n,g=,c=3,n=s
विरुध्य विरुध् pos=vi
एतद् एतद् pos=n,g=n,c=2,n=s
यथावत् यथावत् pos=i
परिगृह्य परिग्रह् pos=vi
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s