Original

दिव्यचन्दनदिग्धाङ्गान्दिव्याभरणभूषितान् ।द्रक्ष्यस्यभिहतान्भूमौ तव दोषात्तु राक्षसान् ॥ २३ ॥

Segmented

दिव्य-चन्दन-दिग्ध-अङ्गान् दिव्य-आभरण-भूषितान् द्रक्ष्यस्य् अभिहतान् भूमौ तव दोषात् तु राक्षसान्

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
चन्दन चन्दन pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part
द्रक्ष्यस्य् दृश् pos=v,p=2,n=s,l=lrt
अभिहतान् अभिहन् pos=va,g=m,c=2,n=p,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
दोषात् दोष pos=n,g=m,c=5,n=s
तु तु pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p