Original

रामो विग्रहवान्धर्मः साधुः सत्यपराक्रमः ।राजा सर्वस्य लोकस्य देवानामिव वासवः ॥ १३ ॥

Segmented

रामो विग्रहवान् धर्मः साधुः सत्य-पराक्रमः राजा सर्वस्य लोकस्य देवानाम् इव वासवः

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
विग्रहवान् विग्रहवत् pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
साधुः साधु pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s