Original

तस्य तां सहसा शाखां भारेण पतगोत्तमः ।सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः ॥ २९ ॥

Segmented

तस्य ताम् सहसा शाखाम् भारेण पतग-उत्तमः सुपर्णः पर्ण-बहुलाम् बभञ्ज अथ महा-बलः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
शाखाम् शाखा pos=n,g=f,c=2,n=s
भारेण भार pos=n,g=m,c=3,n=s
पतग पतग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
पर्ण पर्ण pos=n,comp=y
बहुलाम् बहुल pos=a,g=f,c=2,n=s
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s