Original

असंख्येयास्तु रामस्य सायकाश्चापमण्डलात् ।विनिष्पेतुरतीवोग्रा रक्षः प्राणापहारिणः ॥ १९ ॥

Segmented

असंख्येयास् तु रामस्य सायकाः चाप-मण्डलात् विनिष्पेतुः अतीव उग्राः रक्षः-प्राण-अपहारिन्

Analysis

Word Lemma Parse
असंख्येयास् असंख्येय pos=a,g=m,c=1,n=p
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
सायकाः सायक pos=n,g=m,c=1,n=p
चाप चाप pos=n,comp=y
मण्डलात् मण्डल pos=n,g=n,c=5,n=s
विनिष्पेतुः विनिष्पत् pos=v,p=3,n=p,l=lit
अतीव अतीव pos=i
उग्राः उग्र pos=a,g=m,c=1,n=p
रक्षः रक्षस् pos=n,comp=y
प्राण प्राण pos=n,comp=y
अपहारिन् अपहारिन् pos=a,g=m,c=1,n=p