Original

अनागतविधानं तु कर्तव्यं शुभमिच्छता ।आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥ १० ॥

Segmented

अनागत-विधानम् तु कर्तव्यम् शुभम् इच्छता आपदम् शङ्कमानेन पुरुषेण विपश्चिता

Analysis

Word Lemma Parse
अनागत अनागत pos=a,comp=y
विधानम् विधान pos=n,g=n,c=1,n=s
तु तु pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
शुभम् शुभ pos=n,g=n,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
आपदम् आपद् pos=n,g=f,c=2,n=s
शङ्कमानेन शङ्क् pos=va,g=m,c=3,n=s,f=part
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
विपश्चिता विपश्चित् pos=a,g=m,c=3,n=s