Original

इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश ।उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः ।चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ॥ १६ ॥

Segmented

इत्य् एवम् उक्त्वा संरब्धा राक्षसास् ते चतुर्दश उद्यत-आयुध-निस्त्रिंशाः रामम् एव अभिदुद्रुवुः चिक्षिपुस् तानि शूलानि राघवम् प्रति दुर्जयम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
राक्षसास् राक्षस pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
आयुध आयुध pos=n,comp=y
निस्त्रिंशाः निस्त्रिंश pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit
चिक्षिपुस् क्षिप् pos=v,p=3,n=p,l=lit
तानि तद् pos=n,g=n,c=2,n=p
शूलानि शूल pos=n,g=n,c=2,n=p
राघवम् राघव pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s