Original

तदासीनस्य रामस्य कथासंसक्तचेतसः ।तं देशं राक्षसी काचिदाजगाम यदृच्छया ॥ ४ ॥

Segmented

तदा आसीनस्य रामस्य कथा-संसक्त-चेतसः तम् देशम् राक्षसी काचिद् आजगाम यदृच्छया

Analysis

Word Lemma Parse
तदा तदा pos=i
आसीनस्य आस् pos=va,g=m,c=6,n=s,f=part
रामस्य राम pos=n,g=m,c=6,n=s
कथा कथा pos=n,comp=y
संसक्त संसञ्ज् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s