Original

इत्येवं विलपंस्तत्र प्राप्य गोदावरीं नदीम् ।चक्रेऽभिषेकं काकुत्स्थः सानुजः सह सीतया ॥ ३७ ॥

Segmented

इत्य् एवम् विलपंस् तत्र प्राप्य गोदावरीम् नदीम् चक्रे ऽभिषेकम् काकुत्स्थः स अनुजः सह सीतया

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
विलपंस् विलप् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
प्राप्य प्राप् pos=vi
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
ऽभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s