Original

एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् ।दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ॥ ३४ ॥

Segmented

एवम् उक्त्वा महा-तेजाः समस्तम् तद् वर-आयुधम् दत्त्वा रामाय भगवान् अगस्त्यः पुनः अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
समस्तम् समस्त pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वर वर pos=a,comp=y
आयुधम् आयुध pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
रामाय राम pos=n,g=m,c=4,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan