Original

किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया ।यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥ २ ॥

Segmented

किम् एतद् इच्छेयम् अहम् श्रोतुम् प्रव्याहृतम् त्वया यस्मात् त्वम् आगतो देशम् इमम् चीर-जटाजिनी

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
प्रव्याहृतम् प्रव्याहृ pos=va,g=n,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
यस्मात् यस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
देशम् देश pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
चीर चीर pos=n,comp=y
जटाजिनी जटाजिनिन् pos=a,g=m,c=1,n=s