Original

स राघवः सत्यधृतिश्च लक्ष्मणो महानुभावो भरतश्च धार्मिकः ।वृताः सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यैः सहितास्त्रयोऽग्नयः ॥ २९ ॥

Segmented

स राघवः सत्य-धृतिः च लक्ष्मणो महा-अनुभावः भरतः च धार्मिकः वृताः सुहृद्भिः च विरेजुः अध्वरे यथा सदस्यैः सहितास् त्रयो ऽग्नयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
pos=i
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
वृताः वृ pos=va,g=m,c=1,n=p,f=part
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
pos=i
विरेजुः विराज् pos=v,p=3,n=p,l=lit
अध्वरे अध्वर pos=n,g=m,c=7,n=s
यथा यथा pos=i
सदस्यैः सदस्य pos=n,g=m,c=3,n=p
सहितास् सहित pos=a,g=m,c=1,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
ऽग्नयः अग्नि pos=n,g=m,c=1,n=p