Original

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः ।हुतं च होष्यमाणं च काले वेदयते सदा ॥ ८ ॥

Segmented

कच्चिद् अग्निषु ते युक्तो विधि-ज्ञः मतिमान् ऋजुः हुतम् च होष्यमाणम् च काले वेदयते सदा

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
अग्निषु अग्नि pos=n,g=m,c=7,n=p
ते त्वद् pos=n,g=,c=6,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
विधि विधि pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
ऋजुः ऋजु pos=a,g=m,c=1,n=s
हुतम् हुत pos=n,g=n,c=1,n=s
pos=i
होष्यमाणम् हु pos=va,g=n,c=1,n=s,f=part
pos=i
काले काल pos=n,g=m,c=7,n=s
वेदयते वेदय् pos=v,p=3,n=s,l=lat
सदा सदा pos=i