Original

दुःखाभितप्तो भरतो राजपुत्रो महाबलः ।उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किंचन ॥ ३७ ॥

Segmented

दुःख-अभितप्तः भरतो राज-पुत्रः महा-बलः उक्त्वा आर्य इति सकृद् दीनम् पुनः न उवाच किंचन

Analysis

Word Lemma Parse
दुःख दुःख pos=n,comp=y
अभितप्तः अभितप् pos=va,g=m,c=1,n=s,f=part
भरतो भरत pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
उक्त्वा वच् pos=vi
आर्य आर्य pos=a,g=m,c=8,n=s
इति इति pos=i
सकृद् सकृत् pos=i
दीनम् दीन pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
किंचन कश्चन pos=n,g=n,c=2,n=s